Class 7 Sanskrit Chapter 7 NCERT Solutions ईशावास्यम् इदं सर्वम्
कक्षा 7 संस्कृत पाठ 7 के प्रश्न उत्तर ईशावास्यम् इदं सर्वम्
१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।
(पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)
(क) दैत्यराजः कः ? ………………………
(ख) के हिरण्यकशिपुं ध्यायन्ति ? ………………………
(ग) किं देवेभ्यः न दास्यन्ति ? ………………………
(घ) कस्य दलनेन अपि सः जीवति ? ………………………
(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः ? ………………………
(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्? ………………………
(छ) हरिः कुत्र अस्ति इति कः वदति ? ………………………
उत्तर:
(क) हिरण्यकशिपुः
(ख) जनाः
(ग) यज्ञभागादिकम्
(घ) गजस्य
(ङ) उत्तुङ्गशिखरात्
(च) ब्रह्मदेवात्
(छ) सर्वत्र
२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु ।
(नीचे दिए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(क) के भीताः तिष्ठन्ति ?
(ख) प्रह्लाद : अहर्निशं किं करोति ?
(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः ?
(घ) नृसिंहः कथं बहिः आगच्छति ?
(ङ) हिरण्यकशिपुः केन स्तम्भं भक्ष्यामि इति वदति ?
उत्तर:
(क) सुराः असुराः यक्ष – गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति।
(ख) प्रह्लादः अहर्निशं हिरण्यकशिपुस्य शत्रोः हरेः गुणगानं करोति ।
(ग) प्रह्लादं रज्ज्वा बद्ध्वा समुद्रमध्ये क्षिप्तवन्तः ।
(घ) हिरण्यकशिपुः स्तम्भं प्रहरति । महता गर्जनेन नृसिंह: बहिः आगच्छति।
(ङ) हिरण्यकशिपुः खड्गेन स्तम्भं भक्ष्यामि इति वदति ।

३. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु ।
(उदाहरण के अनुसार खाली स्थानों को भरिए।)
उत्तर:
४. उदाहरणानुसारं रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु।
(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)

(क) हिरण्यकशिपुः आगच्छति।
(ख) सुरासुराः सर्वे भीताः भविष्यन्ति ।
(ग) दैत्यराजः खड्गेन प्रहरति ।
(घ) अहं प्रह्लादं मारयिष्यामि ।
(ङ) तात ! हरिस्तु सर्वत्र अस्ति ।
(च) पुत्रस्य विषये वक्तुम् इच्छति।
(छ) नृसिंह: निजनखैः हिरण्यकशिपुं मारितवान्।
उत्तर:
(क) कः आगच्छति ?
(ख) के सर्वे भीताः भविष्यन्ति ?
(ग) दैत्यराजः केन खड्गेन प्रहरति?
(घ) अहं कं मारयिष्यामि ?
(ङ) तात ! हरिस्तु कुत्र अस्ति ?
(च) कस्य विषये वक्तुम् इच्छति ?
(छ) नृसिंह: कै: हिरण्यकशिपुं मारितवान् ?
५. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया – विभक्त्यन्तानि रूपाणि लिखन्तु ।
(नीचे दिए गए खाली स्थानों में तृतीया विभक्ति के रूप लिखिए।)
(क) अहं मम ………. (खड्ग) स्तम्भं भक्ष्यामि ।
(ख) प्रह्लादः गजस्य ………. (पददलन) अपि जीवति ।
(ग) सर्वे जनाः ……… (नारायण) अनुगृहीताः ।
(घ) अहं ……….. (निजनख) तव वक्ष:स्थलं विदीर्य मारयिष्यामि ।
(ङ) बालिकाः ……… (शिक्षिका) सह चर्चां कुर्वन्ति ।
उत्तर:
(क) अहं मम खड्गेन स्तम्भं भक्ष्यामि।
(ख) प्रह्लादः गजस्य पददलनेन अपि जीवति ।
(ग) सर्वे जनाः नारायणेन अनुगृहीताः ।
(घ) अहं निजनखैः तव वक्षःस्थलं विदीर्य मारयिष्यामि ।
(ङ) बालिकाः शिक्षिकया सह चर्चां कुर्वन्ति ।

६. उदाहरणानुसारं संयोज्य . लिखन्तु । (उदाहरणानुसार जोड़कर लिखिए |)

(क) रमा + ईश: = रमेशः
(ख) सुर + ईश्वरः = ………….
(ग) नाग + इन्द्रः = ………….
(घ) गज + इन्द्रः = ………….
(ङ) माता + इव = ………….
(च) राम + इति = ………….
(छ) पर + उपकारः = ………….
(ज) मम + उपरि = ………….
(झ) सूर्य + उदयः = ………….
(ञ) रामेण + उक्तम् = ………….
(ट) तस्य + उपरि = ………….
उत्तर:
(ख) सुरेश्वरः
(ग) नागेन्द्रः
(घ) गजेन्द्रः
(ङ) मातेव
(च) रामेति
(छ) परोपकारः
(ज) ममोपरि
(झ) सूर्योदय:
(ञ) रामेणोक्तम्
(ट) तस्योपरि
७. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत् काले परिवर्तयन्तु । –
(उदाहरण के अनुसार वाक्यों को वर्तमान से भविष्यत् काल में बदलिए।)
उत्तर:
(ख) रमा क्रीडाङ्गणे क्रीडिष्यति।
(ग) बालाः फलानि खादिष्यन्ति ।
(घ) ताः योगासनं करिष्यन्ति ।
(ङ) अहं नित्यं पठिष्यामि ।
(च) त्वं कस्मिन् विषये वदिष्यसि ?
सा आपणं गमिष्यति।
८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु ।
(उदाहरण के अनुसार खाली स्थान भरिए ।)
उत्तर:
NCERT Class 7 Sanskrit Chapter 7 Extra Questions and Answers ईशावास्यम् इदं सर्वम्
प्रश्न 1.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (निम्नलिखित नाट्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
(क) (हिरण्यकशिपोः सभा)
राजभटः – अयि भोः सावधानाः तिष्ठन्तु । राजाधिराजः राजगम्भीरः त्रैलोक्याधिपतिः देवाधिदेवः दैत्यराजः हिरण्यकशिपुः आगच्छति।
सभासदः – विजयतां महाराज! विजयताम्। विजयतां महाराज! विजयताम्।
हिरण्यकशिपुः – ह ह ह . ह …… (अट्टहासेन सह) अहम् एव सर्वशक्तिमान् अस्मि । अहम् अमरः अस्मि ।
मन्त्री ― सत्यं दैत्यराज! सुराः असुराः यक्ष-गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति ।
दैत्यपुरोहितः – भगवन्! देशे सर्वत्र भवतः एव पूजा भवति। अन्यदेवतानाम् पूजाराधनम् न भवति। इतः परं यज्ञभागादिकम् अपि देवेभ्यः न दास्यन्ति ।
हिरण्यकशिपुः – साधु साधु । अयि भोः मन्त्रिन् ! सर्वत्र जनाः मामेव ध्यायन्ति खलु !
मन्त्री – देव! सर्वत्र भवतः एव नामकीर्तनं भवति, किन्तु…….(अधोमुखः मौनं तिष्ठति ।)
हिरण्यकशिपुः – (सक्रोधम्) आ जानामि जानामि । भवान् मम पुत्रस्य विषये वक्तुम् इच्छति खलु।
मन्त्री – (मन्दध्वनिना) सत्यं देव !
हिरण्यकशिपुः – मम पुत्रकः एव मम शत्रुः अस्ति । कुलकलङ्कः सः प्रह्लाद : अहर्निशं मम शत्रोः हरेः गुणगानं करोति ।
I. एकपदेन उत्तरत।
(i) हिरण्यकशिपोः : शत्रुः कः अस्ति ?
उत्तर:
पुत्रकः (तस्य पुत्रः)
(ii) त्रैलोक्याधिपतिः कः अस्ति ?
उत्तर:
हिरण्यकशिपुः
(iii) देशे सर्वत्र कस्य एव पूजा भवति ?
उत्तर:
हिरण्यकशिपोः

II. पूर्णवाक्येन उत्तरत।
(i) राजभटः हिरण्यकशिपोः विषये किं कथयति ?
उत्तर:
राजभटः हिरण्यकशिपोः विषये कथयति- राजाधिराजः राजगम्भीर: त्रैलोक्याधिपतिः देवाधिदेवः दैत्यराज हिरण्यकशिपुः आगच्छति सावधानाः तिष्ठन्तु ।
(ii) के सर्वे भीताः तिष्ठन्ति ?
उत्तर:
सुराः असुराः यक्ष- गन्धर्व – किन्नराः भवतः सर्वे भीताः तिष्ठन्ति ।
III. भाषिककार्यम् ।
(i) ” दैत्यराज हिरण्यकशिपुः ” अत्र विशेषणपदं किं अस्ति ?
(क) दैत्यराजः
(ख) हिरण्यः
(ग) कश्यपः
उत्तर:
(क) दैत्यराजः
(ii) ‘सर्वे भीताः तिष्ठन्ति’ अत्र क्रियापदं किं आगतम् ?
(क) भीताः
(ख) सर्वे
(ग) तिष्ठन्ति
उत्तर:
(ग) तिष्ठन्ति
(iii) ‘अहम् अमरः अस्मि ।’ अत्र कर्तापदं कः अस्ति ?
(क) अमर:
(ख) अहम्
(ग) अस्मि
उत्तर:
(ख) अहम्
(iv) ‘कुलदीपक:’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) कुलकलङ्कः
(ख) प्रह्लादः
(ग) सः
उत्तर:
(क) कुलकलङ्कः
(ख) हिरण्यकशिपुः – अयि भोः अनुजे ! होलिके!! होलिके!!! कुत्र असि त्वम्? इत इतः ।
होलिका – प्रणमामि भ्रातः ! किमर्थं दुःखितः भासि ? वद भ्रातः ! वद ।
हिरण्यकशिपुः – सत्यम् अनुजे! त्वं जानासि एव, मम पुत्रः एव मम शत्रुः जातः ।
होलिका – भ्रातः ! अलं चिन्तया, ब्रह्मणः वरप्रसादात् अग्निः मां न दहति, अहं ज्वालयिष्यामि प्रह्लादम्। आश्वस्तो भव ।
(होलिका प्रह्लादकक्षं प्रविशति)
(होलिका प्रह्लादस्य नेत्रयोः पट्टिकां बध्नाति । किञ्चित् दूरे अग्निं प्रज्वालयति। स्वयम् अग्नौ उपविश्य करतलध्वनिना आह्वयति ।)
होलिका – अत्र, अहम् अत्र अस्मि इत इतः ।
प्रह्लादः – अहो तापम् अनुभवामि खलु अहम् ।
(प्रह्लाद: अग्निकुण्डस्य समीपं गच्छति । होलिका तम् अङ्के स्वीकरोति ।)
होलिका – ह………..ह……..ह… प्रह्लाद्! अहं तव मृत्युः अस्मि । अहं त्वाम् अग्नये दास्यामि ।
प्रह्लादः – (करौ बद्ध्वा हरिं स्मरति ) ॐ नमो नारायणाय, ॐ नमो नारायणाय, ॐ नमो नारायणाय….
I. एकपदेन उत्तरत।
(i) मम पुत्रः एव मम शत्रुः जातः कः कथयति ?
उत्तर:
हिरण्यकशिपुः
(ii) प्रह्लादः किं अनुभवति ?
उत्तर:
तापम्
II. पूर्णवाक्येन उत्तरत ।
(i) होलिका कस्य प्रसादात् अग्नौ उपविशति ?
उत्तर:
होलिका ब्रह्मणः वरप्रसादात् अग्नौ उपविशति।
(ii) होलिका कस्य नेत्रयोः पट्टिकां बध्नाति ?
उत्तर:
होलिका प्रह्लादस्य नेत्रयोः पट्टिकां बध्नाति।
(iii) प्रह्लादः किं कृत्वा हरिं स्मरति ?
उत्तर:
प्रह्लादः करौ बद्ध्वा हरिं स्मरति ।
III. भाषिककार्यम् ।
(i) ‘मम पुत्रः एव मम …… जातः।’
(क) रिपुः
(ख) शत्रुः
(ग) मित्रम्
उत्तर:
(ख) शत्रुः
(ii) ‘समीपे’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) दूरे
(ख) नेत्रे
(ख) अनुजे
उत्तर:
(क) दूरे
(iii) ‘अग्रजा’ इति पदस्य विलोमपदं किं आगतम् ?
(क) अनुजा
(ख) पट्टिका
(ग) अग्निना
उत्तर:
(क) अनुजा
(iv) अलं चिन्तया ………. वरप्रसादात् अग्निः मां न दहति ।
(क) ब्रह्मणः
(ख) ब्राह्मण:
(ग) ब्रह्मणेन
उत्तर:
(क) ब्रह्मणः
(ग) (ततः प्रविशति प्रह्लादः हिरण्यकशिपुः च)
प्रह्लादः – ॐ नमो नारायणाय, ॐ नमो नारायणाय…
हिरण्यकशिपुः – (सक्रोधं दन्तान् विघट्टयन) आः नारायण! नारायण! दर्शय, कुत्र अस्ति तव नारायणः ?
प्रह्लादः – तात ! श्रीहरिः सर्वत्र अस्ति ।
हिरण्यकशिपुः – किं ते हरिः अत्र अस्ति ? तत्र अस्ति ? सोपानेषु अस्ति ? अथवा अस्मिन् स्तम्भे अस्ति?
प्रह्लादः – नूनं हरिः सर्वत्र अस्ति । अस्मिन् स्तम्भे अपि अस्ति ।
हिरण्यकशिपुः – आः! मूढ! पश्य पश्य, अनेन खड्गेन स्तम्भं भक्ष्यामि।
(हिरण्यकशिपुः स्तम्भं प्रहरति । महता गर्जनेन नृसिंह: स्तम्भात् बहिः आगच्छति)
नृसिंह: – (क्रोधेन सिंहगर्जनम्) रे पापात्मन्! अद्य तव मृत्युः सन्निहितः । कालोऽहं तव ।
हिरण्यकशिपुः – (आदौ आश्चर्येण पश्यति पुनः कथय. ति) आह्! असत्यवादिन् ! अहं ब्रह्मद. ‘वात् वरं प्राप्य अमरः अस्मि । त्वाम् एव मृत्युलोकं प्रेषयिष्यामि।
(तस्मिन् सन्ध्याकाले नृसिंह: हिरण्यकशिपुं केशेषु गृहीत्वा कर्षति)
I. एकपदेन उत्तरत।
(i) श्रीहरिः कुत्र अस्ति ?
उत्तर:
सर्वत्र
(ii) हिरण्यकशिपुः कं प्रहरति?
उत्तर:
स्तम्भं
(iii) ‘कालोऽहं तव’ इति कः कथयति ?
उत्तर:
नृसिंह:

II. पूर्णवाक्येन उत्तरत।
(i) हिरण्यकशिपुः कस्मात् वरं प्राप्य अमरः अस्ति ?
उत्तर:
हिरण्यकशिपुः ब्रह्मदेवात् वरं प्राप्य अमर: अस्ति ।
(ii) नृसिंह: हिरण्यकशिपुं कथं कर्षति ?
उत्तर:
नृसिंह: हिरण्यकशिपुं केशेषु गृहीत्वा कर्षति।
III. भाषिककार्यम् ।
(i) ‘नृसिंहः बहिः आगच्छति ।’ अत्र कर्तृपदं किम् ?
(क) नृसिंह:
(ख) बहि:
(ग) आगच्छति
उत्तर:
(क) नृसिंह:
(ii) ‘नूनं हरि सर्वत्र अस्ति।’ अत्र कति अव्ययपदानि सन्ति?
(क) द्वि
(ख) त्रि
(ख) चत्वारि
उत्तर:
(क) द्वि
(iii) ‘हिरण्यकशिपुः स्तम्भं प्रहरति ।’ अत्र क्रियापदं किम् ?
(क) स्तम्भं
(ख) प्रहरति
(ग) हिरण्यकशिपुः
उत्तर:
(ख) प्रहरति
(iv) श्रीहरिः तु ……… अस्ति ।
(क) सर्वत्र
(ख) कुत्र
(ग) अत्र-तत्र
उत्तर:
(क) सर्वत्र
प्रश्न 2.
उचित – अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत ।
(उचित अव्ययपदों को चुनकर रिक्त स्थान भरिए ।)
नूनं, सर्वत्र, अत्र, तत्र, एव, न
(क) ईश्वरः ………. अस्ति ।
(ख) …….. एषः मालाकारः अस्ति ।
(ग) ……… एकं उद्यानं अस्ति।
(घ) …….. मम विद्यालयः अस्ति ।
(ङ) ……… सर्वे जनाः माम् ………. ध्यायन्ति ।
(च) ……… अहम् मनुष्यः ….. च पशुः।
उत्तर:
(क) ईश्वरः सर्वत्र अस्ति ।
(ख) नूनं एषः मालाकारः अस्ति ।
(ग) तत्र एकं उद्यानं अस्ति ।
(घ) अत्र मम विद्यालयः अस्ति ।
(ङ) सर्वे जनाः माम् एव ध्यायन्ति ।
(च) न अहं मनुष्यः न च पशुः ।
प्रश्न 3.
तृतीया विभक्तिरूपेण रिक्तस्थानानि पूरयत ।
(तृतीया विभक्ति का प्रयोग करके रिक्त स्थान भरिए ।)
(क) नृसिंह:- ………. ‘हिरण्यकशिपुं मारितवान्। (निजनख)
(ख) हिरण्यकशिपुः ……. प्रहरति । (खड्ग)
(ग) महता …….. नृसिंहः बहिः आगच्छति । (गर्जन)
(घ) होलिका तं ………. आह्वयति। (करतलध्वनि)
(ङ) सर्वं जगत् …….. व्याप्तम् अस्ति। (ईश)
(च) गजस्य …….. अपि सः जीवति । (पद-दलन)
उत्तर:
(क) निजनखैः
(ख) खड्गेन
(ग) गर्जनेन
(घ) करतलध्वनिना
(ङ) ईशेन
प्रश्न 4.
विलोमपदानि योजयत ।
(विलोम शब्दों को जोड़िए ।)
उत्तर:
(क) – (x)
(ख) – (ix)
(ग) – (viii)
(घ) – (vii)
(ङ) – (vi)
(च) – (v)
(छ) – (iv)
(ज) – (iii)
(झ) – (ii)
(ञ) – (i)

प्रश्न 5.
एकवचनपदस्य बहुवचनपदं बहुवचनपदस्य एकवचनं च लिखत ।
(एकवचन पद का बहुवचन और बहुवचन पद का एकवचन पद लिखिए।)
उत्तर:
(क) छात्र :
(ख) यूयम्
(ग) बालिकाः
(घ) अहम्
(ङ) बालकः
(च) शिक्षकाः
(छ) युष्माकम्
(ज) मम
(झ) ते
(ञ) ता:
प्रश्न 6.
लङ्लकारे परिवर्तनं कुरुत । (लङ्लकार में बदलिए ।)
उत्तर:
(क) सः अधावत् ।
(ख) सः अखादत् ।
(ग) सः अहसत् ।
(घ) सः अवदत् ।
(ङ) सः अगच्छत्।
(च) सः अचलत्।
0 Comments