Ad Code

Responsive Advertisement

Sanskrit Class 7 Chapter 12 Question Answer – Veerangana Pannadhaya Solutions | वीराङ्गना पन्नाधाया प्रश्न उत्तर

 

Class 7 Sanskrit Chapter 12 NCERT Solutions वीराङ्गना पन्नाधाया

कक्षा 7 संस्कृत पाठ 12 के प्रश्न उत्तर वीराङ्गना पन्नाधाया

१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।

(नीचे दिए प्रश्नों के उत्तर एक पद में लिखिए।)

(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ?
(ख) उदयसिंहः कस्य पुत्रः ?
(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत् ?
(घ) कालान्तरे कः मेवाडस्य राजा अभवत्?
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ?
उत्तर:
(क) पन्नाधाया
(ख) सङ्ग्रामसिंहस्य
(ग) उदयसिंह
(घ) उदयसिंहः
(ङ) अकल्पनीयः
(च) भारतीयानाम्

२. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।

(नीचे दिए प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 1
(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति ?
(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?
(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत् ?
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत् ?
(ङ) आचन्द्रार्कं किं तिष्ठति ?
(च) पन्नाधायायाः बलिदानं किं शिक्षयति ?
उत्तर:
(क) पन्नाधाया त्यागस्य शौर्यस्य च अद्वितीयम् उदाहरणम् अस्ति।
(ख) महाराणासङ्ग्रामसिंहस्य द्वौ पुत्रौ विक्रमादित्य : उदयसिंहः च आस्ताम् ।
(ग) दुष्टबुद्धिः बनवीर : अचिन्तयत् यत्- “अहम् एकः एव उत्तराधिकारी भवेयम् । न कोऽपि मम प्रतिस्पर्धी स्यात् ” इति ।
(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती ।
(ङ) पन्नाधायायाः त्यागः शौर्यः च जगति आचन्द्रार्क तिष्ठति ।
(च) पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्त्तव्यनिष्ठां बलिदानं, विवेकं च शिक्षयति ।

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

३. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु ।

(उदाहरणानुसार उचित पदों से रिक्त स्थान भरिए ।)
NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 2
उत्तर:
NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 3

४. वाक्यानि पठित्वा उदाहरणानुसारं वचन परिवर्तनं कुर्वन्तु ।

(वाक्यों को पढ़कर उदाहरणानुसार वचन बदलिए ।)
NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 4
उत्तर:
NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 5

५. उदाहरणानुसारं रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु ।

(उदाहरणानुसार नीचे दिए गए रेखांकित पदों से प्रश्न निर्माण कीजिए ।)

यथा- महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः ।

प्रश्न- कस्य भ्राता पृथ्वीराज : ?

(क) सः अचिन्तयत्।
(ख) शयनस्थाने चन्दनं शायितवती ।
(ग) राष्ट्रहितं श्रेष्ठम् ।
(घ) बनवीर: चन्दनम् अमारयत्।
(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्।
(च) उदयसिंह: मेवाडस्य राजा अभवत् ।
(छ) मम प्रतिस्पर्धी न स्यात् ।
उत्तर:
(क) कः अचिन्तयत् ?
(ख) चन्दनं कुत्र शायितवती ?
(ग) किं श्रेष्ठम् ?
(घ) बनवीर: कम् अमारयत् ?
(ङ) कस्याः निर्णयः अकल्पनीयः आसीत्?
(च) कः मेवाडस्य राजा अवभवत्?
(छ) कस्य प्रतिस्पर्धी न स्यात् ?

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

६. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु ।

(उदाहरणानुसार नीचे दिए गए पदों की संधि कीजिए ।)

यथा – विद्या + अभ्यासः = विद्याभ्यासः

(क) मम + अपि = ………………..
(ख) विद्या + अर्थी = ………………..
(ग) सह + अनुभूतिः = ………………..
(घ) कवि + इन्द्र: = ………………..
(ङ) गिरि + ईश: = ………………..
(च) वेद + अलङ्कारः = ………………..
(छ) दैत्य + अरिः = ………………..
(ज) सु + उक्तिः = ………………..
उत्तर:
(क) ममापि
(ख) विद्यार्थी
(ग) सहानुभूति:
(घ) कवीन्द्रः
(ङ) गिरीश :
(च) तस्यालङ्कारः
(छ) दैत्यारिः
(ज) सूक्ति:

७. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु ।

(उदाहरणानुसार नीचे दिए गए वाक्यों को वर्तमानकाल (लट्लकार) में परिवर्तित कीजिए।)

यथा- पन्नाधाया राज्यम् अरक्षत्। – पन्नाधाया राज्यं रक्षति ।
(क) उदयसिंहः वीरः आसीत् । – ……………..
(ख) अहं तत् सर्वम् अपश्यम्। – ……………..
(ग) बनवीरः कुतन्त्रम् अकरोत्। – ……………..
(घ) त्वं शयनस्थानम् अगच्छः। – ……………..
(ङ) ते कथाम् अपठन्। – ……………..
(च) धात्री उदयसिंहम् अपृच्छत्। – ……………..
(छ) वयं शूराः अभवाम| – ……………..
उत्तर:
(क) उदयसिंह : वीरः अस्ति ।
(ख) अहं तत् सर्वं पश्यामि ।
(ग) बनवीरः कुतन्त्रं करोति ।
(घ) त्वं शयनस्थानं गच्छसि ।
(ङ) ते कथां पठन्ति ।
(च) धात्री उदयसिंहं पृच्छति ।
(छ) वयं शूराः भवामः ।

NCERT Class 7 Sanskrit Chapter 12 Extra Questions and Answers वीराङ्गना पन्नाधाया

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।

(नीचे लिखे गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)

(क) षोडशे शतके मेवाडनगरे महाराणा – सङ्ग्रामसिंहः इति सुविख्यातः महाराजः आसीत् । तस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्। महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः । बनवीरः पृथ्वीराजस्य अष्टादशसु पुत्रेषु अन्यतमः।
सः बनवीरः महाराणासङ्ग्रामसिंहस्य प्रथमं पुत्रं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासनम् अकरोत् । ततः परमपि दुष्टबुद्धिः सः अचिन्तयत् यत् – ‘ अहम् एकः एव उत्तराधिकारी भवेयम्। न कोऽपि मम प्रतिस्पर्धी स्यात् इति ।
अतः कदाचित् रात्रौ सः उदयसिंह मारयितुं कुतन्त्रम् अरचयत्। तद् ज्ञात्वा पन्नाधाया उदयसिंहस्य शयनस्थाने स्वपुत्रं चन्दनं शायितवती । सा तस्य दुष्परिणामं जानाति स्म। बनवीरः उदयसिंहस्य शयनागारम् आगच्छत्। तत्र सुप्तः चन्दनः एव उदयसिंहः इति मत्वा बनवीर : चन्दनम् अमारयत्।

I. एकपदेन उत्तरत।

(i) महाराणासङ्ग्रामसिंहः कदा राजा अभवत्?
उत्तर:
षोडशे शतके

(ii) महाराणा सङ्ग्रामसिंहस्य प्रथम – पुत्रस्य नाम किम् आसीत्?
उत्तर:
विक्रमादित्यः

(iii) बनवीरः कम् अमारयत्?
उत्तर:
चन्दनम्

II. पूर्णवाक्येन उत्तरत ।

(i) महाराणासङ्ग्रामसिंहस्य कति पुत्राः आसन् ? तेषां नामानि लिखत ।
उत्तर:
महाराणा सङ्ग्रामसिंहस्य द्वौ पुत्र विक्रमादियः, उदयसिंहः च आस्ताम् ।

(ii) पृथ्वीराजस्य कति पुत्राः आसन् ?
उत्तर:
पृथ्वीराजस्य अष्टादश पुत्राः आसन्।

(iii) बनवीरः कं मारयितुं कुतन्त्रम् अरचयत् ?
उत्तर:
बनवीर : उदयसिंहं मारयितुम् कुतन्त्रम् अरचयत्।

III. भाषिककार्यम्।

(i) ‘पन्नाधाया स्वपुत्रं चन्दनं शायितवती । अत्र क्रियापदं किम् ?
(क) पन्नाधाया
(ख) शायितवती
(ग) स्वपुत्रं
उत्तर:
(ख) शायितवती

(ii) ‘जागरितः’ इति पदस्य विपर्ययपदं किं आगतम् ?
(क) सुप्तः
(ख) चन्दनः
(ग) बनवीरः
उत्तर:
(क) सुप्तः

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

(iii) ‘सा तस्य दुष्परिणामं जानाति स्म ।’ अत्र कर्तृपदं किम् ?
(क) सा
(ख) तस्य
(ग) जानाति
उत्तर:
(क) सा

(iv) ‘दुष्टबुद्धि:’ पदं कस्मै प्रयुक्तम् ?
(क) चन्दनाय
(ख) बनवीराय
(ग) उदयसिंहाय
उत्तर:
(ख) बनवीराय

(ख) पन्नाधायायाः निर्णयः अकल्पनीयः आसीत्। ‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति सा जानाति स्म । तस्याः पुत्रस्तु दिवङ्गतः। परं सा मेवाडराज्यं बनवीरस्य कुतन्त्रात् अरक्षत्। कालान्तरे सः एव उदयसिंहः युद्धे बनवीरं हत्वा मेवाडराज्यस्य राजा अभवत् । तस्य पुत्रः एव पराक्रमी योद्धा महाराणाप्रतापः। सः प्रतापः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत् । कथ्यते एव – ‘यदि पन्नाधाया स्वपुत्रस्य बलिदानं न अकरिष्यत् तर्हि उदयसिंहः न अभविष्यत् । यदि उदयसिंहः न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत’।

पन्नाधायायाः त्यागः शौर्यं च जगति आचन्द्रार्कं तिष्ठति । भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत्। पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं कर्तव्यनिष्ठां बलिदानं, विवेकं च शिक्षयति ।

I. एकपदेन उत्तरत।

(i) पन्नाधायायाः निर्णयः कीदृशः आसीत्?
उत्तर:
अकल्पनीयः

(ii) महाराणाप्रतापः कस्य पुत्रः आसीत् ?
उत्तर:
उदयसिंहस्य

II. पूर्णवाक्येन उत्तरत ।

(i) पन्नाधाया किं जानाति स्म ?
उत्तर:
‘व्यक्तिहितं न, राष्ट्रहितम् एव श्रेष्ठम्’ इति पन्नाधाया जानाति स्म ।

(ii) वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं कुत्र प्राप्नोत्?
उत्तर:
भारतीये इतिहासे वीराङ्गनानां गणनासु पन्नाधाया महत्तमं स्थानं प्राप्नोत् ।

(iii) महाराणाप्रतापः कीदृशः आसीत्?
उत्तर:
महाराणाप्रतापः पराक्रमी योद्धा आसीत् ।

III. भाषिककार्यम् ।

(i) ‘रक्षाम् अकरोत्’ इति अर्थे किं पदं आगतम् ?
(क) अरक्षत्
(ख) अभवत्
(ग) अमारयत्
उत्तर:
(क) अरक्षत्

(ii) ‘सा जानाति स्म।’ अत्र क्रियापदं किम् ?
(क) जानाति
(ख) सा
(ग) स्म
उत्तर:
(क) जानाति

(iii) ‘संसारे’ इति अर्थे समानपदं किं आगतम् ?
(क) सर्वान्
(ख) जगति
(ग) विवेकम्
उत्तर:
(ख) जगति

(iv) ‘यदि उदयसिंह: न अभविष्यत् तर्हि महाराणाप्रतापः अपि न अभविष्यत् ।’ अत्र कति अव्ययाः सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) पञ्च
उत्तर:
(ख) चत्वारि

प्रश्न 2.
रेखांकितपदानां सन्धिविच्छेदं विकल्पेभ्यः चिनुत ।
(रेखांकित पदों के संधि-विच्छेद विकल्पों से चुनिए ।)

(क) विद्यार्थी आलस्यं त्यजेत् ।
(i) विद्या + अर्थी
(iii) विद्या + रथी
(ii) विद्य + आर्थी
उत्तर:
(i) विद्या + अर्थी

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

(ख) मह्यम् वर्षर्तुः अतीव रोचते ।
(i) अती + ईव
(ii) अति + इव
(iii) अतीव + इव
उत्तर:
(ii) अति + इव

(ग) हिमालयः भारतस्य उत्तरदिशि अस्ति ।
(i) हिम + आलय:
(ii) हिमा + लय:
(iii) हिमा + अलयः
उत्तर:
(i) हिम + आलय:

(घ) अद्यावकाशः अस्ति ।
(i) अद्या + काशः
(ii) अद्य + अवकाशः
(iii) अद्या + आवकाशः
उत्तर:
(ii) अद्य + अवकाशः

(ङ) अहम् एकः एव उत्तराधिकारी भवेयम् ।
(i) उत्तर + अधिकारी
(ii) उत्तरा + धिकारी
(iii) उत्तराधि + कारी
उत्तर:
(i) उत्तर + अधिकारी

(च) विक्रमादित्यः प्रतापी राजा अभवत् ।
(i) विक्रमा + दित्य
(ii) विक्रम + आदित्यः
(iii) विक्र + मादित्य
उत्तर:
(ii) विक्रम + आदित्यः

(छ) गुरुं प्रति अध्ययनार्थं गच्छति ।
(i) अध्ययन + अर्थ
(ii) अध्ययना + आर्थां
(iii) अध्ययन + रथम्
उत्तर:
(i) अध्ययन + अर्थ

(ज) शृगालः पिपासाकुलः अभवत्।
(i) पिपास + अकुल:
(ii) पिपासा + अकुलः
(iii) पिपासय + कुलः
उत्तर:
(ii) पिपासा + अकुलः

(झ) सत्यार्थप्रकाशः प्रसिद्धः ग्रन्थः अस्ति ।
(i) सत्य + अर्थः
(ii) सत्या + आर्थ
(iii) सत्य + आरथ
उत्तर:
(i) सत्य + अर्थः

प्रश्न 3.
रेखांकितपदानां सन्धिपदं विकल्पेभ्यः चिनुत ।
(रेखांकित पदों के संधि पद विकल्पों से चुनिए ।

(क) अत्र सु + उक्तिः किमर्थं लिखितम् ?
(i) सूक्ति:
(ii) सुक्ति
(iii) सुउक्ति
उत्तर:
(i) सूक्ति:

(ख) अद्य मम परि + ईक्षा अस्ति ।
(i) परिक्षा
(ii) परीक्षा
(iii) परिईक्षा
उत्तर:
(ii) परीक्षा

(ग) दया + आनन्दः समाज सुधारकः आसीत्।
(i) दयानन्दः
(ii) दयायानंद
(iii) दयाआनन्द
उत्तर:
(i) दयानन्दः

(घ) राम + अनुजः लक्ष्मणः हनुमन्तं वदति ।
(i) रामनुजः
(ii) रामानुजः
(iii) रामआनुज
उत्तर:
(ii) रामानुजः

(ङ) मम विद्यालये एक: पुस्तक + आलयः अस्ति।
(i) पुस्तकालयः
(ii) पुस्ताकालयः
(iii) पुस्तक आलय
उत्तर:
(i) पुस्तकालयः

(च) तत्र एक: शिवस्य देव + आलयः अस्ति ।
(i) देवस्यआलय
(ii) देवानां आलय
(iii) देवालयः
उत्तर:
(iii) देवालयः

(छ) पूर्वदिशि भानु + उदयः भवति।
(i) भानूदयः
(ii) भानुदयः
(iii) भानुउदय:
उत्तर:
(i) भानूदयः

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

(ज) हरि + ईश: अत्रैव वसति ।
(i) हरिश:
(ii) हरीश:
(iii) हरिईश
उत्तर:
(ii) हरीश:

(झ) वाल्मीकि: मुनि + इन्द्र: अपि कथ्यते ।
(i) मुनिइन्द्रः
(ii) मुनिन्द्रः
(iii) मुनीन्द्रः
उत्तर:
(iii) मुनीन्द्रः

प्रश्न 4.
विकल्पेभ्यः उचितं विभक्तिर्युक्तं पदं चित्वा वाक्यपूर्तिः क्रियताम् ।

(विकल्पों से उचित विभक्ति युक्त पदों को चुनकर वाक्यपूर्ति कीजिए।)

(क) ………. अनुजः नवमकक्षायां पठति ।
(i) माम्
(ii) मम
(iii) मह्यम्
उत्तर:
(ii) मम

(ख) भो: आचार्य अत्र ………. बालिकाः लिखन्ति ।
(i) त्रयः
(ii) त्रीणि
(iii) तिस्र:
उत्तर:
(iii) तिस्र:

(ग) या श्रमेण पठति ……… एव साफल्यं लभते ।
(i) सा
(ii) सः
(iii) ते
उत्तर:
(i) सा

(घ) एते ……… सन्ति ।
(i) विद्वान
(ii) विद्वांसः
(iii) विदुषः
उत्तर:
(ii) विद्वांसः

(ङ) गुरु: ………. आशीर्वादं यच्छति ।
(i) छात्रेभ्यः
(ii) छात्रान्
(iii) छात्रा:
उत्तर:
(i) छात्रेभ्यः

(च) अत्र मधुराणि …….. सन्ति ।
(i) फलम्
(ii) फले
(iii) फलानि
उत्तर:
(iii) फलानि

(छ) …….. नाम किम् अस्ति ?
(i) तव
(ii) त्वया
(iii) त्वाम्
उत्तर:
(i) तव

(ज) राष्ट्रपति: ……… सम्मानं करोति ।
(i) कविषु
(ii) कविभिः
(iii) कवीनाम्
उत्तर:
(iii) कवीनाम्

(झ) मेवाडनगरे ……… सुविख्यातः महाराजः आसीत्।
(i) सङ्ग्रामसिंहः
(ii) सङ्ग्रामसिंहम्
(iii) सङ्ग्रामसिंहेन
उत्तर:
(i) सङ्ग्रामसिंहः

(ञ) ……… निर्णयः अकल्पनीयः आसीत् ।
(i) पन्नाधाया
(ii) पन्नाधायाया:
(iii) पन्नाधायस्य
उत्तर:
(ii) पन्नाधायाया:

प्रश्न 5.
क्रियापदानि शुद्धानि कृत्वा वाक्यानि पुनः लिखत ।
(क्रियापदों को शुद्ध करके वाक्य पुन: लिखिए।)

(क) अहम् उद्याने तिष्ठिष्यामि ।
(ख) ते बालकाः फलानां रसं पिबिष्यन्ति ।
(ग) श्वः अवकाशः अस्ति ।
(घ) यः सोमवासरः भविष्यति ।
(ङ) अहमपि त्वया सह गच्छिष्यामि ।
उत्तर:
(क) अहम् उद्याने स्थास्यामि ।
(ख) ते बालकाः फलानां रसं पास्यन्ति ।
(ग) श्वः अवकाशः भविष्यति ।
(घ) ह्यः सोमवासरः आसीत्।
(ङ) अहमपि त्वया सह गमिष्यामि ।

NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया

प्रश्न 6.
यथानिर्देशं रेखांकितपदानि परिवर्त्य वाक्यानि पुनः लिखत ।
(निर्देश के अनुसार रेखांकित पदों को बदलकर वाक्य पुन: लिखिए।)

(क) काकानां वर्णः कृष्णः भवति । (एकवचने)
(ख) वृक्षस्य सुरक्षा अनिवार्या । (बहुवचने)
(ग) बालकस्य गीतं मधुरम् अस्ति । (द्विवचने)
(घ) युष्माकं विद्यालयः विशालः अस्ति । (एकवचने)
(ङ) मम देश: भारतम् अस्ति । (बहुवचने)
(च) वेदस्य भाषा संस्कृतम् अस्ति । (बहुवचने)
उत्तर:
(क) काकस्य वर्णः कृष्णः भवति ।
(ख) वृक्षाणां सुरक्षा अनिवार्या ।
(ग) बालकयोः गीतं मधुरम् अस्ति ।
(घ) तव विद्यालयः विशालः अस्ति।
(ङ) अस्माकं देश: भारतम् अस्ति ।
(च) वेदानां भाषा संस्कृतम् अस्ति ।

प्रश्न 7.
निम्न पदानि तेषां हिन्दीअर्थैः सह मेलनं कुरुत
(नीचे दिए पदों को उनके हिंदी अर्थों के साथ मिलाइए।)
NCERT Class 7 Sanskrit Chapter 12 Question Answer Solutions वीराङ्गना पन्नाधाया 6
उत्तर:
(क) – (vii)
(ख) – (v)
(ग) – (i)
(घ) – (vi)
(ङ) – (ii)
(च) – (iv)
(छ) – (iii)

Post a Comment

0 Comments