Class 7 Sanskrit Chapter 3 NCERT Solutions मित्राय नमः
कक्षा 7 संस्कृत पाठ 3 के प्रश्न उत्तर मित्राय नमः
१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(क) शुभं भवतु इति कः वदति ? – ……………………..
(ख) योगिता आचार्यां ‘किं शिक्षयतु’ इति वदति ? – ……………………..
(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति ? – ……………………..
(घ) केषु सूर्यनमस्कारः श्रेष्ठ: ? – ……………………..
(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति ? – ……………………..
उत्तर:
(क) आचार्या
(ख) सूर्यनमस्कारम्
(ग) द्वादश
(घ) योगासनेषु
(ङ) स्वस्थम्
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)
(क) सर्वे छात्राः आचार्यां किं पृच्छन्ति ?
(ख) सूर्यनमस्कारः इत्यनेन कः आशय: ?
(ग) आचार्याः कं श्लोकं पाठयति ?
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः ?
(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते ?
उत्तर:
(क) सर्वे छात्राः पृच्छन्ति आचार्य ! किम् अद्य भवान् अस्मान् योगासनं शिक्षयति ?
(ख) सूर्यनमस्कारः इत्यनेन आशयः अस्ति यत् सूर्यनमस्कारेण बहूनि प्रयोजनानि सम्भवति ।
(ग) आचार्या श्लोकं पाठयति-
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।।
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः ॐ मित्राय नमः’ इति अस्ति ।
(ङ) सूर्यनमस्कारेण शारीरिक, मानसिकम्, आध्यात्मिकं च बलं वर्धते।

३. पाठात् समुचितं पदं चित्वा अद्यः रिक्तस्थानानि पूरयन्तु ।
(पाठ पढ़कर वाक्य के खाली स्थानों को भरिए ।)
(क) प्रत्येकस्मात् ……… पूर्वम् एकः मन्त्रः भवति।
(ख) वयं प्रतिदिनं ………. करवाम ।
(ग) स्वस्थं ……… स्वस्थं …….. च प्राप्नवाम।
(घ) एकेन ……… सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
(ङ) आदित्यस्य …………. ये कुर्वन्ति दिने दिने ।
उत्तर:
(क) सूर्यनमस्कारात्
(ख) सूर्यनमस्कारं
(ग) शरीरं; मनः
(घ) श्लोकेन
(ङ) नमस्कारान्

अत्र इदम् अवधेयम्
‘नमः’ शब्दस्य योगे चतुर्थी विभक्तिः भवति । यथा – भास्कराय नमः।
४. पाठे विद्यमानानां नमः युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु ।
(पाठ में विद्यमान ‘नमः’ युक्त शब्दों का संग्रह करके लिखिए।)
उत्तर:
(क) रवये नमः ।
(ख) सूर्याय नमः ।
(ग) भानवे नमः ।
(घ) खगाय नमः |
(ङ) पूष्णे नमः।
(च) हिरण्यगर्भाय नमः ।
(छ) मरीचये नमः ।
(ज) आदित्याय नमः ।
(झ) सवित्रे नमः ।
(ञ) अर्काय नमः।
(ट) भास्कराय नमः ।
५. उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु।
(उदाहरण के अनुसार कोष्ठक से पदों को लेकर वाक्य बनाइए ।)
अग्निः, आचार्यः, त्रिवर्णध्वजः, जनकः, वृक्षः,
देवी, भगिनी, मातामही, जननी, पृथिवी, नदी
यथा – अग्नये नमः ।
उत्तर:
(क) आचार्याय नमः ।
(ख) त्रिवर्णध्वजाय नमः ।
(ग) जनकाय नमः ।
(घ) वृक्षाय नमः।
(ङ) देव्यै नमः।
(च) भगिन्यै नमः ।
(छ) मातामह्यै नमः।
(ज) जनन्यै नमः।
(झ) पृथिव्यै नमः।
(ञ) नद्यै नमः ।
अत्र इदम् अवधेयम्
दानार्थे (दा-धातो: तथा च यच्छ्-धातो: योगे) चतुर्थी-विभक्तेः प्रयोगः भवति।
यथा – शिक्षकः छात्राय पुस्तकं ददाति ।
शिक्षकः छात्राय पुस्तकं यच्छति ।

६. कोष्ठके विद्यमानानां शब्दानां चतुर्थी विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु ।
(कोष्ठक में विद्यमान शब्दों के चतुर्थी विभक्ति के रूपों का प्रयोग कर वाक्यों को पुन: लिखिए।)
उत्तर:
(क) माता याचकाय वस्त्रं ददाति ।
(ख) पौत्रः पितामहयै औषधं ददाति ।
(ग) अहं भगिन्यै उपायनं ददामि।
(घ) पिता सेविकायै वेतनं ददाति ।
(ङ) त्वं मित्राय पुष्पं ददासि ।
(च) देवः भक्ताय आशीर्वादं ददाति ।
(छ) आरक्षक : चौराय दण्डं ददाति ।
७. उदाहरणानुसारं माता कस्मै / कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु ।
(उदाहरणानुसार माता किसको धन देती है, इसे कोष्ठक में विद्यमान पदों को जोड़कर लिखिए।)
उत्तर:
(क) माता पुत्र्यै धनं ददाति ।
(ख) माता पुत्राय धनं ददाति ।
(ग) माता पाचिकायै धनं ददाति ।
(घ) माता आपणिकाय धनं ददाति ।
(ङ) माता याचकाय धनं ददाति ।
(च) माता पितामह्यै धनं ददाति ।
८. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु ।
(उदाहरण के अनुसार खाली स्थान भरिए ।)
उत्तर:
NCERT Class 7 Sanskrit Chapter 3 Extra Questions and Answers मित्राय नमः
प्रश्न 1.
चतुर्थी विभक्ति – पदैः रिक्तस्थानानि पूरयत ।
(चतुर्थी विभक्ति के पदों से खाली स्थान भरिए ।)
(क) मालाकार: ………. पुष्पाणि त्रोटयति ।
(i) माले
(ii) मालायै
(iii) मालान्
उत्तर:
(ii) मालायै
(ख) पिता ………. फलानि आनयति ।
(i) पुत्रान्
(ii) पुत्रम्
(iii) पुत्रेभ्यः
उत्तर:
(iii) पुत्रेभ्यः
(ग) अत्र सूदः ……… भोजनं पचति ।
(i) जनेभ्यः
(ii) जनम्
(iii) जनस्य
उत्तर:
(i) जनेभ्यः

(घ) जना: ……… भोजनालयं आगच्छन्ति ।
(i) भोजनम्
(ii) भोजनाय
(iii) भोजनात्
उत्तर:
(ii) भोजनाय
(ङ) सेवकः ………. पानपात्राणि यच्छति ।
(i) नरेभ्यः
(ii) नरस्य
(iii) नराणाम्
उत्तर:
(i) नरेभ्यः
(च) एषः विद्यालयः ……. अस्ति।
(i) बालकेभ्यः
(ii) बालके
(iii) बालकम्
उत्तर:
(i) बालकेभ्यः
(छ) विद्यालये बालकाः …….. आगच्छन्ति ।
(i) पठनम्
(ii) पठनाय
(iii) पठनस्य
उत्तर:
(ii) पठनाय
प्रश्न 2.
रेखांकितपदानि शुद्धं कृत्वा लिखत ।
(रेखांकित पदों को शुद्ध करके लिखिए।)
(क) शिवं नमः ।
(i) शिव:
(ii) शिवाय
(iii) शिव
उत्तर:
(ii) शिवाय
(ख) अध्यापक: मित्रम् उपहारं यच्छति।
(i) मित्राय
(ii) मित्रस्य
(iii) मित्राणि
उत्तर:
(i) मित्राय
(ग) मां पठनम् रोचते ।
(i) मम
(ii) अहम्
(iii) मह्यम्
उत्तर:
(iii) मह्यम्
(घ) श्री गणेशस्य नमः ।
(i) गणेशाय
(ii) गणेशम
(iii) गणेशे
उत्तर:
(i) गणेशाय
(ङ) नृपः भिक्षुकं धनं ददाति ।
(i) भिक्षुकस्य
(ii) भिक्षुकाय
(iii) भिक्षुकः
उत्तर:
(ii) भिक्षुकाय
(च) रामः रावणस्य अलम् आसीत्।
(i) रावणाय
(ii) रावणम्
(iii) रावणान्
उत्तर:
(i) रावणाय

(छ) अस्मान् मोदकं रोचते ।
(i) अस्मभ्यम्
(ii) अस्माभिः
(iii) अस्मत्
उत्तर:
(i) अस्मभ्यम्
(ज) पिता पुत्रस्य क्रुध्यति ।
(i) पुत्राय
(ii) पुत्रम्
(iii) पुत्राः
उत्तर:
(i) पुत्राय
(झ) गुरूं नमः।
(i) गुरूणाम्
(ii) गुरवे
(iii) गुरु:
उत्तर:
(ii) गुरवे
(ञ) बालकः विद्याः पठति ।
(i) विद्यायै
(ii) विद्याया:
(iii) विद्यात्
उत्तर:
(i) विद्यायै
प्रश्न 3.
‘सूर्य’ इत्यस्य पर्यायपदानि लिखत ।
(सूर्य के पर्यायवाची पदों को लिखिए।)
उत्तर:
सूर्य:- मित्रः, रविः, भानुः खगः, पूषा, हिरण्यगर्भः, मरीचिः, आदित्यः, सविता), अर्क:, भास्करः आदि ।
प्रश्न 4.
निम्नलिखितशब्दानां संस्कृतपर्यायं विकल्पेभ्यः चित्वा लिखत।
(निम्नलिखित शब्दों के संस्कृत पर्याय विकल्पों से चुनकर लिखिए।)
(क) भास्कर के लिए-
(i) भास्कराय
(ii) भास्करेभ्यः
(iii) भास्कराभ्याम्
उत्तर:
(i) भास्कराय
(ख) शिक्षिका के लिए-
(i) शिक्षिकाभ्यः
(ii) शिक्षिकाय
(iii) शिक्षिकानाम्
उत्तर:
(ii) शिक्षिकाय
(ग) सब कबूतरों के लिए-
(i) कपोतेभ्यः
(iii) कपोताय
(ii) कपोताभ्याम्
उत्तर:
(i) कपोतेभ्यः

(घ) इन्द्र के लिए –
(i) इन्द्रेभ्यः
(ii) इन्द्राय
(iii) इन्द्राभ्याम्
उत्तर:
(ii) इन्द्राय
(ङ) सब देवताओं के लिए-
(i) देवाय
(ii) देवेन
(iii) देवेभ्य:
उत्तर:
(iii) देवेभ्य:
प्रश्न 5.
उदाहरणानुसारं प्रश्ननिर्माणं कुरुत |
(उदाहरण के अनुसार प्रश्न – निर्माण कीजिए ।)
यथा – सर्वे उपविशन्तु ।
प्रश्न: के उपविशन्तु ?
(क) अद्य सूर्यनमस्कारं कुरुत ।
(ख) सूर्यनमस्कारः द्वादश – आसनानां समाहारः अस्ति ।
(ग) सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति ।
(घ) तेषु प्रथमः मन्त्रः अस्ति ॐ मित्राय नमः ।
(ङ) सूर्यनमस्कारेण शारीरिकं मानसिकं आध्यात्मिकं च बलं वर्धते।
उत्तर:
(क) कदा सूर्यनमस्कारं कुरुत ?
(ख) सूर्यनमस्कारः कति आसनानां समाहारः अस्ति ?
(ग) कस्मात् पूर्वम् एकः मन्त्रः भवति ?
(घ) केषु प्रथमः मन्त्रः अस्ति ॐ मित्राय नमः ?’
(ङ) केन शारीरिक मानसिकं आध्यात्मिकं च बलं वर्धते?
प्रश्न 6.
भिन्नप्रकृतिकं पदं चिनुत ( भिन्न प्रकृति वाला पद चुनिए ।)
(क) गजः, नरः, अश्व:, बिडाल:
(ख) लतायै, कन्यायै, पूजनाय, सेविकायै
(ग) द्राक्षाफलम्, मिष्टान्नम्, आम्रम्, नारिकेलम्
(घ) लता, वृक्षः, कुसुमम्, शीघ्रम्
(ङ) अर्क:, मनः, आदित्यः, सूर्य:
उत्तर:
(क) नरः
(ख) पूजनाय
(ग) मिष्टान्नम्
(घ) शीघ्रम्
0 Comments